अगर आप भी अपने इन्स्टाग्राम प्रोफाइल के लिए Best Sanskrit Shlok For Instagram Bio, Hindu Sanskrit Shlok For Instagram Bio सर्च कर रहे हैं, तो आपको बतादें यहाँ हमने आपके लिए काफी सारे Unique Sanskrit Shlok Captions For Instagram शेयर किये हैं।
आप अपनी पसंदीदा बायो को कॉपी करके अपने इन्स्टाग्राम अकाउंट की बायो में पेस्ट कर सकते हैं और अपने प्रोफाइल को बाकियों से अलग और बेहतर बना सकते हैं।
इस वेबसाइट पर आपको Boys and Girls दोनों के लिए एक से बढ़कर एक इन्स्टाग्राम और फेसबुक बायो copy and paste करने के लिए मिलेंगी।
Sanskrit Shlok For Instagram Bio
उद्धरेदात्मनात्मानं नात्मानमवसादयेत्।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः॥
ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो।
ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः॥
अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता।
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्॥
स्वस्तिप्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु॥
यथा चित्तं तथा वाचो यथा वाचस्तथा क्रिया ।
चित्ते वाचि क्रियायां च साधूनामेकरूपता ॥
रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमू रामाय तस्मै नमः।
रामान्नास्ति परायणंपरतरं रामस्य दासोस्म्यहं रामे चित्तलयस्सदा भवतु मे भो राम मामुद्धर॥
आरोप्यते शिला शैले यथा यत्नेन भूयसा।
निपात्यते सुखेनाधस्तथात्मा गुणदोषयोः॥
Best Sanskrit Shlok For Instagram Bio
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत्॥
ॐ शान्तिः शान्तिः शान्तिः॥
तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये।
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम्॥
युक्ति युक्तं प्रगृह्णीयात् बालादपि विचक्षणः।
रवेरविषयं वस्तु किं न दीपः प्रकाशयेत्॥
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति॥
सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च
यस्मिन्नेव नित्यं कल्याणं तत्र वै ध्रुवम् ॥
धनानि भूमौ पशवश्च गोष्ठे भार्या गृहद्वारि जनः श्मशाने।
देहश्चितायां परलोकमार्गे कर्मोनुगो गच्छति जीव एकः॥
Hindu Sanskrit Shlok For Instagram Bio
यथा ह्यल्पेन यत्नेन च्छिद्यते तरुणस्तरुः।
स एवाऽतिप्रवृध्दस्तु च्छिद्यतेऽतिप्रयत्नतः॥
एवमेव विकारोऽपि तरुणः साध्यते सुखम्।
विवृध्दः साध्यते कृछ्रादसाध्यो वाऽपि जायते॥
वसुदेवसुतं देवं कंसचाणूरमर्दनम्।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम्॥
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥
स्वस्थस्य स्वास्थ्यरक्षणमातुरस्य विकारप्रशमनं च॥
सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्।
एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः॥
रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः।
इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहार॥
One Line Sanskrit Shlok For Instagram Bio
धर्मो रक्षति रक्षितः।
यतो धर्मस्ततो जयः।
सर्वे सन्तु निरामयाः।
अहमस्मि योधः।
अहं ब्रम्हास्मि।
योग: कर्मसु कौशलम्।
मनसा वाचा कर्मणा।
अनुगृहीतास्म्यहम्।
अन्तोऽस्ति प्रारम्भः।
न किञ्चिच्छाश्वतम्।
धन्योऽस्मि भारतत्वेन।
सङ्घे शक्तिः कलौ युगे।
अति सर्वत्र वर्जयेत्।
तेन त्यक्तेन भुञ्जीथाः।
Radha Krishna Sanskrit Shlok For Instagram Bio With Emoji
ईशा वास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥
उक्तवानस्मि दुर्बुद्धिं मन्दं दुर्योधनं पुरा।
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः॥
लये संबोधयेत् चित्तं विक्षिप्तं शमयेत् पुनः।
सकशायं विजानीयात् समप्राप्तं न चालयेत् ॥
कोऽन्धो योऽकार्यरतः को बधिरो यो हितानि न श्रुणोति।
को मूको यः काले प्रियाणि वक्तुं न जानाति॥
चरितं रघुनाथस्य शतकोटिप्रविस्तरम्।
अनारम्भस्तु कार्याणां प्रथमं बुद्धिलक्षणम्।
आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम्॥
यत्कर्म कृत्वा कुर्वंश्च करिष्यंश्चैव लज्जति ।
तज्ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् ॥
Mahakal Sanskrit Shlok For Instagram Bio
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः॥
अर्जुनस्य प्रतिज्ञे द्वे न दैन्यं न पलायनम्।
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः॥
आकिञ्चन्ये न मोक्षोऽस्ति किञ्चन्ये नास्ति बन्धनम्।
किञ्चन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते॥
मा कुरु धनजनयौवनगर्वं हरति निमेषात्कालः सर्वम्।
मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा॥
जरामृत्यू हि भूतानां खादितारौ वृकाविव ।
बलिनां दुर्बलानां च ह्रस्वानां महतामपि ॥
अये ममोदासितमेव जिह्वया द्वयेऽपि तस्मिन्ननतिप्रयोजने।
गरौ गिरः पल्लवनार्थलाघवे मितं च सारं च वचो हि वाग्मिता॥
Shree Ram Sanskrit Shlok For Instagram Bio
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्॥
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः।
तेजस्विनि क्षमोपेते नातिकार्कश्यमाचरेत्।
अतिनिर्मथनाद्वह्निश्चन्दनादपि जायते॥
कल्पयति येन वृत्तिं येन च लोके प्रशस्यते सद्भिः।
स गुणस्तेन च गुणिना रक्ष्यः संवर्धनीयश्च॥
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम्।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्॥
कुसुम-सधर्माणि हि योषितः सुकुमार-उपक्रमाः।
ताः तु अनधिगत-विश्वासैः प्रसभम् उपक्रम्यमाणाः संप्रयाग-द्वेषिण्यः भवन्ति। तस्मात् साम्ना एव उपचरेत्॥
Krishna Sanskrit Shlok For Instagram Bio in Sanskrit
रामो राजमणिः सदा विजयते।
प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् ।
तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यसि ॥
ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति।
प्रार्थयामहे भव शतायुः।
ईश्वरः सदा त्वां च रक्षतु॥
पुण्यकर्मणा कीर्तिमर्जय।
जीवनं तव भवतु सार्थकम्॥
वीरभोग्या वसुंधरा।
पिपीलिकार्जितं धान्यं मक्षिकासञ्चितं मधु ।
लुब्धेन सञ्चितं द्रव्यं समूलं हि विनश्यति ॥
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥
उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः।
उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च॥
Best Sanskrit Shlok For Instagram Bio With Meaning
राज्यं दास्ये न देवेभ्यो वीरभोग्या वसुंधरा।
क्ञ्रणं दास्यामि ते रुद्र देवानां पार्टिसिने॥
स्वस्मै स्वल्पं समाजाय सर्वस्वम्।
एकोऽहं द्वितीयो नास्ति न भूतो न भविष्यति।
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्।
सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत्सुखम्॥
चरितं रघुनाथस्य शतकोटिप्रविस्तरम्।
एकैकमक्षरं पुंसां महापातकनाशनम्॥
व्यतिषजति पदार्थानान्तरं कोऽपि हेतुर्न खलु बहिरुपाधीन् प्रीतयःसंश्रयन्ते॥
विवादो धनसम्बन्धो याचनं चातिभाषणम् ।
आदानमग्रतः स्थानं मैत्रीभङ्गस्य हेतवः॥
Final Words – Ram Sanskrit Shlok For Instagram Bio
इस पोस्ट में हमने आपके लिए Best Sanskrit Shlok For Instagram Bio, Mahakal Sanskrit Shlok For Instagram Bio, Krishna Sanskrit Shlok For Instagram Bio साझा की है, आशा करते हैं सभी Sanskrit Shlok Bio आपको अच्छी लगी होंगी।
अगर शेयर की गयी बायो आपको अच्छी लगी तो, अपने दोस्तों के साथ सोशल मीडिया पर जरुर शेयर करें।
Related Posts:-